________________
४६
शालिनी
-
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
देही नित्यो निर्जरश्चाऽमरश्च, शुद्धो बुद्धश्चैकरूपः परन्तु ।
एतद्देहात्यन्त-सम्पर्कहेतो
देहाऽसङ्गः सर्व-कर्म-क्षयेण,
कर्मोच्छेदः केवल- ज्ञान - लब्ध्या । जाते तस्मिञ्जायते चाऽयमात्मा,
रज्ञो नाशी बद्ध आभासते वै ॥ २६९ ॥
वैतालीयम् -
मुक्तोऽबद्धः सर्ववित्सर्वदर्शी ॥ २६८ ॥
अज्ञा नरा यावदिहाऽऽम ( त्म ) - पुत्रकलत्र-लक्ष्मी-सदनाऽऽदिकेषु । मुह्यन्ति तावद्भव - काननेऽस्मि
न्ननन्तकालं परितो भ्रमन्ति ॥ २६९ ॥
इदमिह सदनं ममास्ति नो,
धन-सुत - जाया - बान्धवास्तथा । इति विमृशति यो हि ना सदा,
ममतोदेति न तस्य कर्हिचित् ॥२७०॥
इह भवेऽस्ति यो ममाङ्गजो,
भविताऽग्रे स हि कस्य पुत्रकः ? | इत्थमेव कौटुम्बिकाः समे,
न भवति तदेषु रञ्जना सताम् ॥२७१॥