SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४५ धर्मोपदेशः। अहो हि धीराः क्षणभरेषु, नैतेषु रज्यन्ति विवेकवन्तः । हित्वा ममत्वं स्वहिताय तूर्णं, धर्मं श्रयन्ते परमं विशुद्धम् ॥२६२॥ भुजङ्गप्रयातम् - जगत्या-मियं मोहलीला विचित्रा, __जना येषु दाराऽऽदिवर्गेष्वजस्रम् । धरन्ते मदीया मदीयेति-बुद्धिम्, इमानेकदा तेऽप्यकाण्डे त्यजन्ति ॥२६३॥ शार्दूलविक्रीडितम् - यद्देहस्य सुखाय शश्वदखिलाः पान्तीह दाराऽऽदिकानाहारैः सरसैः सदैव नितरां पुष्णन्ति यं मानुषाः । स्रग्वस्त्राभरणादिभिश्च सततं सम्भूषयन्त्यादराद्, एकस्मिन् दिवसे तमत्र सुखदं हित्वैव यान्ति ध्रुवम् ॥२६४॥ कोटीशाः परमर्द्धिका नरवरा वीरा नरेन्द्रादयः,, चञ्चच्चामर-वीजिता गजपति-स्कन्ध-स्थिता यान्ति ये । सेनानी-प्रमुखाऽऽवृता वरवधू-वृन्द-श्रिताः सर्वदा, तेऽप्येकत्र दिने विहाय सकलं गच्छन्ति लोकान्तरम् ॥२६५॥ वसन्ततिलका - माया-प्रपञ्च-रचितं सकलं च विश्वं, स्वप्नोपमं तदवलोक्य विचार-दृष्ट्या । निःश्रेयसाय यतनं करणीयमेत-- - देवाऽस्ति मुख्यमिह तत्त्वविदां सुपुंसाम् ॥२६६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy