________________
४३
पितरमुद्दिश्य चरित्रनेतुरुपदेश मालिनी - इह हि जगति भव्या ! धर्म एवास्ति सारः,
सुरतरुरिव सर्वाऽभीष्टदाता स एषः । नवनिधि-समवाप्तिं कारयत्येष एव,
गमयति सुरलोकं प्रापयत्येष मोक्षम् ॥२५२॥ शार्दूलविक्रीडितम् - तस्मादुर्धियमाशु सर्वमनुजा ! हित्वाऽऽत्मनः श्रेयसे,
कृत्वा धर्ममकल्मषं जिनवरैः सङ्कीर्तितं चाऽऽगमे । त्यक्त्वा स्त्री-धन-पुत्र-गेह-सुहृदां मोहं दुरन्तं बुधा !,
अक्षय्यं सुखमिच्छतु ह्यनुपमं यदुर्लभं देहिनाम् ॥२५३॥ वैतालीयम् - इह युवता चञ्चलोपमा,
विषय-सुखा अपि नश्वरा मताः । मतिविकलो ना तथापि हा !, ।
तत्तृष्णां न हि हातुमिच्छति ॥२५४॥ शार्दूलविक्रीडितम् - आयुश्चापि चिरं विनाशरहितं नो जायते देहिनां,
__ जायन्ते विविधागदा बलहरा देहेषु तेषां सदा । हन्ताऽप्यस्ति-विपज्जराऽऽधि-मरणोद्भूतं प्रभूतं भयं,
तस्मात् संयम एक एव सुविधा निर्भीक आलम्ब्यते ॥२५५॥ मालिनी - बहु-भव-कृत-पुण्यैः प्राप्यते यत्कदाचित्,
असकृदिदममुष्मिन्नाऽधिगन्तुं च शक्यम् ।