SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४१ चरित्रनेत्रा कृता संघकलहनिवृत्तिः । आसीन्महान् येन तदीय-सिद्धि ऋद्ध्यादि कार्ये महती च हानिः ॥२४१॥ हन्तात्र धर्मे बलवान् विरोधः, किं किं न दुःखं जनयत्यवश्यम् । परत्र वासो नरकेषु तेषां, येऽमुत्र धर्मे कलहायमानाः ॥२४२॥ तमप्यसौ धार्मिक-सूक्ति-युक्त्या, विलोप्य विद्वान् दयया महत्या । प्रबोध्य सर्वान् समनीनयत्स, मैत्री प्रशस्यां चरितस्य नेता ॥२४३॥ ततश्च सर्वे सुखिनो बभूवुः, __ परस्परं सख्यमुपेतवन्तः । सन्तुष्टवुः श्रीसुगुरुं किलैनं, धीमज्जनानां धुरि कीर्तनीयम् ॥२४४॥ वसन्ततिलका - श्रीमत्प्रताप"विजयैर्गुरुभिः सहाऽत्र, पन्न्यास-नाम-पदवी-समलङ्कृतैश्च । श्रीभावपूर्वविजयेन भविष्यता प न्यासाऽञ्चितेन चरिताधिपतिर्यवात्सीत् ॥२४५॥ गुर्वाज्ञया चरितनायक एव नित्यं, जीमूत-गर्जन-विजित्वर-निःस्वनेन । ओजस्विनीममृत-सन्निभ-देशनां स, चक्रेऽत्र सभ्य-हृदयं भृशमाकृषन्तीम् ॥२४६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy