________________
४०
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सुश्राविकाः श्राद्धगणाश्च सर्वे, श्रुत्वा तदीयाऽद्भुतदेशनां हि । प्रभावनां प्राप्य ययुर्गृहाणि,
बाढं स्तुवन्तो मुनिराजमेनम् ॥२३६॥
आसन्न - वर्षासमयं विलोक्य,
तत्रत्य-सङ्घः समुदारभक्त्या । प्रावृष्यवस्थातुममुं मुनीन्द्रं,
बह्वाग्रही दुज्ज्वल-शील - शालम् ॥ २३७॥
ततो ह्ययं सर्वजनाऽऽग्रहेण,
खेतर्वसीनामकपाटिकायाम् ।
उपाश्रये राम-शराङ्क- भूमी - ( १९५३ ) वर्षे प्रचक्रे जलदर्तुवासम् ॥२३८॥
निपीय भव्याः सुचिरं गुरूणां,
व्याख्यान - पीयूष - रसं यथेच्छम् । सम्यक्त्व- दाढर्यं समवाप्य सर्वे,
प्रबोधमत्यन्तमुपेयिवांसः ॥२३९॥
जहुश्च केचिल्लशुनाऽशनाऽऽदि,
लुश्च केचिन्नियमं विशेषम् ।
अभिग्रहं केचन दधुरेवं,
ददुश्च दानं बहु धर्मकार्ये ॥२४०॥
तत्पाटकीयाऽग्रय-महाजनानां, मिथो विरोधो बहुवत्सरीयः ।