SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ राजनगरात् श्रीसिद्धाचलसत्क ऐतिहासिक संघः । इत्थं सद्गुरु - देव - भूरि- कृपया कैश्चित्प्रयाणैरसौ, सिद्धाद्रिं समुपेयिवान् सकुशलः संघश्चतुर्धा मुदा । दृष्ट्वा चादिम-तीर्थपं जिनवरं श्रीनाभिराजात्मजं, साफल्यं जनुषः समाप सकलोऽप्येनं मुहुः संस्तुवन् ॥२३१॥ इत्थं तीर्थपतेर्विधाय विधिवच्छत्रुञ्जयस्याऽऽदरात्, यात्रां भक्तिभरेण तत्र कतिचिद् घस्त्रान् समध्युष्य सः । पश्चात्पट्टणपत्तनं मुनिवरस्तस्माद्विहृत्याऽऽगमत्, सर्वैः शिष्यगणैरुदारमतिभिः शेश्रीयमाणो मुदा ॥ २३२ ॥ बेण्डाऽऽद्यैर्विविधैः सुवाद्यनिकरैर्नानद्यमानैरलं, सर्वाऽऽशा-परिपूर्णतामुपगतैरभ्यागतान् सद्गुरून् । सम्प्राप्ता - खिल- देहि-कर्ण-विवरेष्वत्यन्त - बाधिर्यतां, कुर्वद्भिः शरदिन्दु- सुन्दर - मुखी - सीमन्तिनी - गायनैः ॥२३३॥ अत्युच्चैर्बहुकेतनैश्च ललितै- र्लेलिह्यमानैर्वियत्, सद्वन्दि-प्रमुखैः पठद्भिरनघ- श्रीमद्गुरूणां स्तुती: । शङ्खध्वान-जयाऽऽरवैश्च सकलाः पौराः प्रमोदाऽऽकुलाः, तन्वन्तः परमोत्सवं निजपुरं प्रावीविशन्नादरात् ॥२३४॥ ( युग्मम् ) भुजङ्गप्रयातं — ३९ ददौ देशनां सोऽथ तस्मिन् सुधायाः, सहक्षां प्रशस्यां जनाऽघौघ- लोपाम् । भवाब्धौ निमग्नीभवद्भव्य-जीवान्, हठादुद्धरिष्णुं पयोद-स्वनेन ॥ २३५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy