________________
३६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् दुःखं निशम्य बलवत्तत एष शीघ्रं,
यातो हि राजनगरं गुरुसेवनार्थम् ॥२१४॥ चैत्रेऽसिते शिवतिथौ समुपेत्य तत्र,
षण्मासका-वधिक-दुष्ट-रुजाऽदितस्य । सेवा-परो निज-गुरोः सततं स तस्मि
नेवाकरोज्जलद-कालिक-सन्निवासम् ॥२१५॥ दृग्-भूत-रन्ध्र-धरणीमित( १९५२)-वैक्रमेऽब्दे,
प्रावृष्यसौ सकल-भावुक-वृन्दमत्र । शत्रुञ्जयाऽऽख्य-बहुपावन-तीर्थराज
माहात्म्यमिष्टफलदं समशुश्रवच्च ॥२१६॥ स्रग्धरा - यात्रामेतस्य भक्त्या विदधति मनुजा ये महान्तः परैर्वा, शुद्धान्तर्भावपूर्णा जनि-मृतिहरणीं कारयन्तीह यात्राम् । तेषां किं किं फलं वै भवति परभवे प्रस्फुटं सर्वमेतन्, मेघ-ध्वानाऽनुकृत्या निज-मधुर-गिरा व्याचचक्षे सभायाम् ॥२१७॥ उपजाति: - इतो विहारावसरे विपश्चि
च्छीमच्चरित्राधिपतेरमुष्य । निःशेष-दुःखोपशमाय सार
गर्भोपदेशं बहुधा निशम्य ॥२१८॥ स्रग्धरा - मोतीलालो महेभ्यः सुकृत-कृति-रतो वीरचन्द्रेभ्य-पुत्रः, चत्वारिंशत्सहस्री सकल-जनमतो ढालपोलाधिवासी ।