________________
३५
चरित्रनेतुस्तीर्थयात्राकरणम् । सिद्धपूरे उपधानम् । महत्तपः श्रीउपधान नामाऽ
नुष्ठातुकामा नगरे च तस्मिन् ॥२०९॥ भुजङ्गप्रयातं - तदन्ते समग्रास्तपः कर्तृलोकाः,
प्रवृत्ते सुचारूत्सवेऽनेकधा हि । गुरोः पाणि-पद्म-प्रदत्ताः सुमाला,
___ अवाक्षुः शिरोभिः प्रहर्ष-प्रकर्षात् ॥२१०॥ उपजातिः - आष्टाहिकं चारुतरं ह्यपूर्वं,
गुरूपदेशाद् व्यदधुश्च पौराः । महोत्सवं प्रत्यहमेतकेऽस्मिन्,
प्रभावनाः श्रीफलकाऽऽदिभिश्च ॥२११॥ स्वधर्मिवात्सल्यमनेकमस्मिन्,
जीवाऽनुकम्पाऽऽदिषु भूरिदानम् । शान्त्यादिकस्नात्र-समर्चनं च,
श्रद्धालवस्ते कृतिनः प्रचक्रुः ॥२१२॥ द्रुतविलम्बितम् -
विहरमाण इतः करुणानिधिः,
___ प्रथित-वालम-तीर्थमुपागतः । प्रभुमुदीक्ष्य सुनम्य नृजन्मतां,
सफलतामनयत्स यतीश्वरः ॥२१३॥ वसन्ततिलका - कृत्वा विहारमुमतानगरं प्रपन्नः,
श्रीमद्गुमानविजयाऽऽख्य-गुरोः शरीरे ।