________________
बेचर - डाह्यानाम्नोदीक्षायां बुद्धिसागरदानविजयनाम्नी । इत्थं ह्युभौ संयम - रत्नमित्वा, निःसीम-मोदं समवापतुस्तौ ॥१९७॥
वसन्ततिलका
व्योमेषु-नन्द-शशि- सम्मित ( १९५० ) - विक्रमीये, संवत्सरे जलद - कालिकसन्निवासम् । बीजापुरे पुरवरे कृतवान् सुधीमान्,
लाभो महानभवदत्र समस्तसङ्के ॥१९८॥
स्वागता
प्रावृषो विरमणे मुनिनाथै - स्तत्पुरः प्रविहरद्भिरुदारैः । शिष्य-वृन्द-परिजुष्ट-पदाब्जैः, प्रापि राजनगरं धुत - पापैः ॥ १९९॥
बेण्ड-शङ्ख-पटहाऽऽदिनिनादै - दिव्य - वेष- रमणी - जन-गीतैः । भूरि- चारु-रचितोत्सव एष, प्राविशत्पुरवरं मुनिराजः ॥ २००॥ दीपचन्द्र - तनुजन्म - महेभ्य- वीरचन्द्र - रमणीय - सुहर्म्यम् । अध्युवास मुनि-मण्डल - युक्तः, श्रेष्ठि-वर्ग-परिवन्दित पादः ॥ २०१ ॥ उपजाति:
पुनस्ततः श्रेष्ठिजनाऽऽग्रहेण, लुवारपोलीय उपाश्रयेऽसौ । भू-बाण-नन्द - क्षिति( १९५१ ) - वैक्रमेऽब्दे, पयोदकालं गमयाञ्चकार ॥ २०२॥
शिखरिणी
चतुर्मास्याः पूर्ती परममुनिराजः प्रविहरन्,
३३
गतो भोयण्याख्ये प्रथितवरतीर्थे ह्यघहरे । इहाऽद्राक्षीद्रम्यां जिनवर - विभोर्मूर्तिमनघां,
प्रणम्यैतां नत्वा स्वममत सुधन्यं गुणनिधिः ॥२०३॥