SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ बीजापूरे पंन्यासश्रीप्रतापविजयस्य चातुर्मासकम् । शार्दूलविक्रीडितम् - वर्षाकाल उपागते बहुजना आगत्य बह्वाग्रहात्, सद्भक्त्या मुनिराजमेनमनघं बीजापुरं निन्यिरे । चातुर्मास-मतिष्ठदेष मतिमांस्तत्रैव सम्प्रार्थितः, पंन्यासः शुभकृत प्रतापविजयः श्रीमान् सुशिष्यैः श्रितः ॥१८७॥ वसन्ततिलका - संसार-दुःख-दहनाऽधिक-दह्यमानं, चेतः सतां निज-सुधामय-देशनायाः । शश्वत्सुवृष्टिकरणेन दयाऽऽर्द्रचेता, आनन्दयद् घन इवाऽधिक-तप्तभूमिम् ॥१८८॥ शिखरिणीअसारे संसारे न हि दधति केऽप्यत्र मनुजाः, स्थितिं नित्यां सर्वे जनन-मरण-क्लेशमसकृत् । सहन्ते तन्मुक्त्यै जिनगदित-धर्मं ह्यनुपमं, ___ सुख-प्रेक्षावन्तो भजत लघु यूयं सुमनसः ॥१८९॥ तडिल्लोलाऽऽकारा धन-सदन-दाराऽऽदिकजना, विपद्यन्ते सर्वे जल इव तरङ्गा अहरहः । अतो विज्ञा नैषु क्षणमपि रमध्वं कथमपि, विहायैतत्सङ्गं कुरुत निजकल्याणमचिरम् ॥१९०॥ इन्द्रवंशा - इत्थं गुरोस्तस्य निशम्य देशनां, सांसारिकाऽशेष-विमोह-नाशिनीम् । वैराग्य-चिन्तामणि-रत्नदायिनी, संसार-दुष्पार-समुद्र-तारिणीम् ॥१९१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy