________________
४८०
अनन्तरं संघमहाग्रहेण,
ते सूरिराजस्य हि शिष्यविज्ञाः ।
अहम्मदावादपुरे वरेण्ये,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
स्थिताश्चतुर्मासनिवासहेतोः ॥४१६॥
तस्मिन् डèलाह्व उपाश्रये वै, श्रीलोहकाराभिधवित्तपोले ।
वीरस्य चोपाश्रयके तथैवं,
पृथक् पृथक् साधुवरा: सुशीलाः ॥४१७॥
तथा च तत्रत्यजनप्रसिद्धे,
श्रीशामलानामकरम्यपोले ।
सन्नूतनोपाश्रयके तदानीं,
वर्षर्तुवासार्थमवस्थितास्ते ॥ ४१८॥ ( युग्मम् )
अनेकसंख्यैः शुभपुण्यकृत्यै
स्तथैव तीर्थोद्धतिभिश्च तेषाम् ।
सूरीश्वराणां सकलासु दिक्षु,
व्यपप्रथत् कीर्तिगणोऽतिशुद्धः ॥४१९॥
शार्दूलविक्रीडितम् -
विद्वान् सत्समुदाय उच्चयमिनां
श्रीनीतिसूरेः सदा, चारित्राऽवनतस्तपश्चरणतो
ज्ञानादिदानार्जनैः ।
सर्वज्ञप्रथितोपदेशकरणै
भव्यान् समुद्बोधयन्,