________________
४७८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिखरिणी - महापूजामुख्या वरविलमभावा विधियुता,
शुभा नैकाः पूजाः सकलभविचेतस्सुखकराः । अपाठ्यन्त श्राद्धैर्जिनपरमभक्तैर्बहुविधाः,
सुवाद्यैः सद्रागैर्जनहृदयहारिभिरतुलैः ॥४०६॥
गीतिः -
तथैव वीरविजयाह्व,
उपाश्रये चापि राजनगरस्थे । अष्टाह्निको महोत्सवो,
व्यधीयत श्राद्धपुङ्गवैभव्यः ॥४०७॥ तत्राऽकारि समवसरण
भरतमहाराजसभाप्रभृतीनाम् । चित्र-विचित्रपदाथै,
रचना भव्या तदा सुशिल्पिवरैः ॥४०८॥ शिखरिणी -
तथा शान्तिस्नात्रं विविधविधिपूर्णं सुखकर
__मपाढ्युच्चैः श्राद्धैर्भविकजनताह्लादजनकम् । त्रिषु स्थानेष्वित्थं व्ययितमतिभक्त्या बहुमुदा,
__ मिलित्वा रूप्याणामयुतमुरुभावैर्भविवरैः ॥४०९॥ उपजातिः - एवं व्यधायि प्रचुरव्ययेन,
श्रीशामलाह्वे जनवित्तपोले । अहम्मदावादपुरे तदानी
मष्टाह्निकाह्वः सुमहोत्सवो वै ॥४१०॥ १. दश सहस्राणि ।