________________
सूरिनिर्वाणनिमित्तक अष्टाह्निका महोत्सव: लोहकार प्रतोल्यादि स्थानके ४७७ अष्टाह्निकाह्वः सुमहोत्सवो वै,
व्यधायि पूर्वं प्रवरे च तस्मिन् ।
श्रीरैवताख्यस्य सुपर्वतस्य,
चित्तोडदुर्गस्य च तीर्थभूमेः ॥४०१ ॥
तथैव गीर्वाणगिरेः सुमेरोर्महद्धिजुष्टस्य गिरीश्वरस्य ।
अकारि भव्या रचनाऽतिरम्या,
सच्छ्रावकैर्भावयुतैः सहर्षम् ॥ ४०२ ॥
जिनेश्वराणां प्रतिमोत्तमानाम्,
आङ्गीति ख्याता रचिता सदैव ।
सुगन्धिपुष्पैर्वरभूषणैश्च,
शोभाऽतिभव्या समभूच्च तस्याः ॥ ४०३ ॥
तथा सदा सुन्दररागपूर्व
मपाठयन्ताऽत्र वराः सुपूजा: ।
अष्टोत्तरीस्नात्रमथो पवित्रं,
(त्रिभिर्विशेषकम् ।)
व्यधायि भक्तैर्वरशुद्धभावैः ॥ ४०४ ॥
तथा प्रसिद्धे हेलाभिधाने,
उपाश्रये वै समकारि रम्यः ।
अष्टाह्निकाख्यः सुमहोत्सवश्च,
भव्यैः प्रकारैर्जिनभक्तिभाग्भिः ॥४०५॥