________________
४७६ मालिनी
उदयविजयनामा वित्तपंन्यासवर्य,
उभयमुनिसमानैः सत्पदै राजितश्च,
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उदयसमपदार्य्यो रम्यकल्याणनामा ।
विजयपदविराजी मङ्गलाख्यो गणीशः ॥३९६॥
इत्यादिपूर्वोक्तमुनीश्वरेषु,
पत्राण्यलेखीत् किल नम्रवाक्यैः । धीमान् भगूभाइवरेण्यनामा,
श्रीसूतरीयाख्यकुलावतंसः ॥ ३९७॥
तदैव राष्ट्राद् वरमेदपाटात्,
तथा च देशाद् मरुधन्वनाम्नः ।
तथैव सन्मालवनामदेशा
देवं हि सौराष्ट्रसुदेशमुख्यात् ॥ ३९८ ॥
कृत्वा विहारं व्रतिनामधीशा,
( चतुर्भिः कलापकम् ।)
आसन्नपञ्चाशमहामुनीन्द्राः ।
शिष्यप्रशिष्यादिसमूहयुक्ता,
अहम्मदावादपुरं समागुः ॥ ३९९ ॥ ( युग्मम् )
आचार्यवर्योत्तमलब्धकीर्ते
अहम्मदावादपुरे प्रसिद्धे,
निर्वाणहेतोर्गुरुनीतिसूरेः ।
श्री लोहकाराभिधपूतवासे ॥४०॥