SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४७५ प्रतिष्ठाप्रसंगोपरि आगताः सकलसंघाः । वीरस्य चोपाश्रय एवमादा वस्माकमिच्छाऽस्ति महान् विधातुम् ॥३९०॥ किञ्चापि चैतत् सुमहोत्सवादि, कार्यं पवित्रं भवदागमस्य । अनन्तरं चैव भविष्यतीति, समागमो वस्त्वरयैव कार्यः ॥३९१॥ आवश्यकत्वं समुदायकस्य, सम्मेलनस्यास्ति च संप्रतीह । भवन्त आयान्तु ततश्च शीघ्र महम्मदावादपुराय सर्वे ॥३९२॥(पञ्चभिः कुलकम्) स्वीकृत्य सर्वे यमिनां वरिष्ठा स्तां प्रार्थनां श्रेष्ठिवरस्य तथ्याम् । अहम्मदावादपुरं प्रयातुं, चित्तोडदुर्गाद् व्यहरस्तदैते ॥३९३॥ स्थलेषु चाऽन्येषु तथा स्थिता ये, शिष्योत्तमाः श्रीगुरुनीतिसूरेः । विद्वत्सु वित्ता विजयादिहर्ष सूरिप्रधाना मुनिमाननीयाः ॥३९४॥ तथैव पंन्यासपदाङ्कितोऽसौ, दानेतिपूर्वो विजयो गणीन्द्रः । तथा च पंन्यासगणिप्रकाण्डः, श्रीमानपूर्वो विजयान्तनामा ॥३९५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy