________________
चित्तोड दुर्गोपरि जिनालयानां प्रतिष्ठा । सोऽवास्थित श्रेष्ठतमेऽतितुङ्गे, चित्तोडदुर्गोपरिराजिते च ।
राष्ट्राधिराजस्य महाप्रतिष्ठे,
गीतिः
-
उपजाति:
प्रासादवर्ये बहुमानजुष्टः ॥ ३८० ॥
पुण्यप्रतिष्ठासुविधिं विधातुं, तत्रागमच्छ्रीकचुकीत्युपाह्वः । श्रीमोतिलालात्मजचन्दुलालो, जैनप्रतिष्ठाविधिसुप्रतिष्ठः ॥ ३८१ ॥
चीमनलालाभिधश्च,
सकरचन्द्रस्य तनुज उच्चशीलः । इत्यादिका विधिज्ञाः,
क्रियां विधातुं समागतास्तत्र ॥ ३८२॥
श्रीमाघमासस्य सिते सुपक्षे,
पुण्यद्वितीयाख्यतिथौ सुलग्ने ।
भूरिप्रमोदैः सह सज्जनानां,
तत्र प्रतिष्ठा समभूत् सुभव्या ॥३८३॥
तस्मिन् प्रतिष्ठादिवसे पवित्रे,
व्याधात् प्रपूतां नवकारशीं च ।
श्रीमान् भगूभाइधनिप्रसिद्धः,
श्रीचूनिलालात्मज ईड्यकीर्तिः ॥ ३८४ ॥
४७३