________________
४६९
चित्तोडतीर्थ प्रतिष्ठाट कृते समागता मुनिवराः । उपजातिः - सर्वे मुनीन्द्रा नवसंख्यका ये,
ज्ञानोद्यताः संयमलीनचित्ताः । तांस्तेऽमिलन्नुक्तमुनिप्रवेका,
नेतुं प्रतिष्ठासुमहोत्सवेऽत्र ॥३६०॥ विहृत्य तस्मात् सुवरेण्यतीर्थाद्,
विद्याऽतिवित्तो वरसंयमाढ्यः । श्रीमानुपाध्यायपदाभिधर्ता,
दयादिशब्दो विजयान्तनामा ॥३६१॥ गणीशपन्यासपदाङ्कितश्च,
मनोहरादिविजयाभिधानः । तथा च पन्यासपदाभिजुष्टः,
शमीशसंपद्विजयो गणीन्द्रः ॥३६२॥ इत्यादयस्ते सुचरित्रवित्ता
श्चित्तोडदुर्गं त्वरया समागुः । तत्राऽमिलस्तान् यमिनामधीशान्,
अवस्थिताः पूर्वमिमे मुनीशाः ॥३६३॥ भद्रङ्कराख्यो विजयावसान,
उमेदपूर्वो विजयो मुनिश्च । श्रीचम्पकाग्र्यो विजयान्तरम्यः,
संमिल्य सर्वे बहुमोदमापन् ॥३६४॥ (युग्मम्)