________________
४६२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रभाविमाहात्म्यविभूषितस्य,
मुनीन्द्रवर्यस्य शरीररक्षाम् । शत्रुजयानामपवित्रनद्यां,
क्षेप्तुं हि तत्रत्यजनस्य रूढिः ॥३२३॥ अतो द्वितीये दिवसे समेत्य,
श्राद्धा हि भर्तुं समवारभन्त । गोणीषु रक्षां तु यदा तदानीं
तस्यामपश्यन् खलु नारिकेलम् ॥३२४॥ दृष्ट्वैतदाश्चर्यकरं च लोका,
__ विस्फारनेत्रैस्तददृष्टपूर्वम् । अवर्णयन्नुच्चतमं प्रभाव
माचार्यराजस्य सुनीतिसूरेः ॥३२५॥ संप्रेषिता सूरिशरीरभूतिः,
श्रीपादलिप्ताख्यपुरे पवित्रे । शत्रुजयासन्नतमस्थितायां,
शत्रुजयायां समवाह्यतैषै ॥३२६॥ आचार्यवर्यस्य समीपमास
निमे मुनीशा अवसानकाले गणीन्द्रपन्यासपदाभिजुष्टो,
मनोहरादिविजयाभिधानः ॥३२७॥ तथा च पन्न्यासपदातिवित्तो,
गणीशसंपद्विजयाभिधानः ।