________________
अंतिमसंस्कारयात्रा । सर्वत्र शोक साम्राज्यम् । सूरीशदेहं शिबिकान्तराले, प्रस्थाप्य सर्वे जयनादयुक्ताः ।
'अवाक्षुरत्युत्तमभावभाजो, बेण्डादिवाद्यध्वनिपूर्वमेते ॥३१८ ॥
गीतिः
जय नन्दा जय भद्दा,
जय जय नन्दा जय जय जय भद्दा । सर्वे भव्याः श्राद्धा,
वदन्त इत्थं व्यचारिषुर्मार्गे ॥३१९॥
उपजाति:
उच्छालयन्तोऽध्वनि ताम्र- रौप्यसौवर्णमुद्रादिधनस्य मुष्टीन् ।
अयुश्च राज्यस्य महाश्मशान
स्थानं प्रति श्रावकपुङ्गवास्ते ॥ ३२० ॥
तस्मिंश्च काले वरधान्यमुख्यं, प्रभूतदानं समदीयताऽत्र ।
अतीवदीनार्तजनेभ्य उच्चै
रथोऽगमन् राजश्मशानमेते ॥३२१॥
तत्राऽग्निसंस्कारमकुर्वतैते, सुगन्धिभिश्चन्दनदारुभिर्हि ।
आचार्यराजस्य पवित्रतन्वाः,
सर्वे जनाः शोकयुतास्तदानीम् ॥३२२॥
१. 'वह्' धातोरद्यतन्याम् ।
४६१