________________
४६०
अवाप्य भूपेन्द्रनिदेशमेतं,
विरोधिरोधं स्वमते हितं च ॥३१२॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सुश्रावकाग्र्यास्तदनन्तरं ते, आचार्यराजस्य सुनीतिसूरे: ।
स्नानादिकार्यं प्रविधाय तन्वा,
व्यभूषयन् शुद्धनवीनवस्त्रैः ॥३१३॥
आशावरी स्वर्णमयी सुमूल्या, देहोपरिसंपरिधापिता च ।
प्राचीनरूढ्या च परंपराया,
अबध्यताऽऽस्ये मुखवस्त्रिका तैः ॥ ३९४॥
कृत्वा वरां मण्डपिकां सुभव्यां, सौवर्णसूत्रान्वितशुद्धवस्त्रैः ।
पट्टैर्दुकूलैश्च वरातिमूल्यै
र्व्यभूषयन् श्रावकपुङ्गवास्ताम् ॥३१५॥
मनोहराकारविराजितस्य,
तद्याप्ययानस्य विधापितस्य ।
स्वलङ्कृतस्योपरि स्वर्णरूपा
मारोपयन् सत्कलशीं वरेण्याम् ॥३१६॥
अनन्तरं श्राद्धसमूहमुख्याः, प्रभूतभक्त्या कृतयाप्ययाने ।
आचार्यदेवस्य पवित्रदेहं,
शनैः शनैः स्थापितवन्त एते ॥३१७॥