________________
४५९
इर्षालवानामुपशमनं राजदण्डैः । अतो वयं तत्करणे विरोधं,
बहुं करिष्याम इतो मिलित्वा । एवं विचिन्त्यैकमतेन सर्वे,
विनार्थमुद्योगमकापुरेते ॥३०७॥ अमूं प्रवृत्तिं प्रविबुध्य तेषां,
समादिशत्तन्नगराधिराजः । संप्रेष्य भृत्यं निजशासनेन,
न्यवेदयद्वृत्तमिमांस्तदानीम् ॥३०८॥ आचार्य आसीद् गुरुनीतिसूरि
र्योगीश्वरः पूततमान्तरात्मा । अतोऽतिपूज्यस्य मुनीश्वरस्य,
___ संमानदानं भवतीति योग्यम् ॥३०९॥ आशावरी स्वर्णमयी सुखेन,
प्रभूतमूल्या परिधापनीया । केनाऽपि बाधा खलु नैव कार्या,
बाधाकराः स्युपदण्डनीयाः ॥३१०॥ आदेशमेतं नगराधिपस्य,
श्रुत्वा समे स्थानकवासिनस्ते आसन् स्वकार्ये शिथिलप्रयासा
खला लभन्ते खलताफलं हि ॥३११॥ अभूज्जयोद्घोषणमुच्चकैश्च,
तदा सतां मन्दिरमार्गिणां वै ।