________________
श्रीनीतिविजयेन गृहीतं छेदोपस्थापन चारित्रम् (बृहद्दीक्षा ) ।
गीति:
चरम - जिन - शासनेऽस्मिन्, सामायिक- परिहारविशुद्धीमे ( वै) । छेदोपस्थाप्य - सूक्ष्मसम्पराय - यथाख्यातचारित्रम् ॥१७६॥
-
उपगीति:
विलसति तेषु प्रथमं, दीक्षायां मुनीनामधुना । तत्सामायिकसंज्ञं, ददति चारित्रं श्रीगुरवः ॥१७७॥
-
गीतिः
सुचिरं परीक्ष्य पश्चाद्, उद्वाह्य दशवैकालिकयोगश्च । छेदोपस्थाप्यनाम - चारित्रं द्वितीयमपि सन्ददते ॥१७८॥
उपगीतिः
सदोषाऽदोष-पर्यायं पौर्वं छित्त्वा गणेशः । ददते यच्चारित्रं, तदुच्यते छेदोपस्थाप्यम् ॥ १७९॥
उपजाति:
-
तद्योग्यताऽऽपन्नमशेष-धीम
ज्जनाग्रगण्यं समधीत- शास्त्रम् ।
अमुं चरित्राऽधिपतिं विदित्वा,
ख-बाण-निध्येकमिते (१९५०) सुवर्षे ॥१८०॥
माघे सुमासे राशि - शोभि-पक्षे, गणेश - तिथ्यामसुरेज्य - वारे |
पोरे विशाले नगरेऽतिरम्ये,
२९
शान्तो ऽतिदान्तो मुनिराजवर्यः ॥ १८९॥
पन्यास - भाक् श्रीविजयोपवर्तीप्रताप - नामा बलवत्सुलग्ने ।