SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ उदयपूरनरेशस्य भावाञ्जली । अंतिमसंस्कार कृते उदयपूर आगमनम् ४५७ इत्यादयः श्रावकवंशदीप्रा स्तत्रैकलिङ्गाख्यनिवासकेऽगुः । ऐच्छंश्च योगीश्वरनीतिसूरे नेतुं शरीरं ह्युदयादिपुर्याम् ॥२९६॥ नीत्वा शरीरं गुरुवर्यसूरेः, सुश्रावकाग्र्या उदयादिपुर्याम् । कर्तुं तदीयाऽनलसंस्कृतिं ते, सूरीशशिष्यान् समवेदयन्त ॥२९७॥ तदाऽवदन् सूरिपतेः सुशिष्या, आचार्यवर्याः सुरलोकवासम् । इहाऽऽप्तवन्तोऽत्र वरं ततोऽग्नि संस्कारकार्यप्रविधानमेषाम् ॥२९८॥ न्यगादिषुस्ते खलु नम्रवाचा, सूरीशदेवस्य पवित्रदेहम् । नेतुमनुज्ञामुदयादिपुर्यां, पूज्या भवन्तो ददतां सुविज्ञाः ॥२९९॥ मालिनी - उदयपुरनिवासिश्रावकाणां च तत्र, प्रचुरतमसुमोदः संभविष्यत्यतुल्यः । गुरुवरवरतन्वा दर्शनोद्भूत उच्चै रितरजनसमूहस्याऽपि संतोषकारी ॥३००॥ अपि च विजयनीतिसूरिराजस्य तन्वा, उदयपुरपृथिव्यामग्निसंस्कारकार्यम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy