________________
४५५
गुरुवराणां निर्वाणम् ।
स्वर्गं गतानां श्रीविजयनीतिसूरीश्वराणां निर्वाणसमयकुण्डिलिका चेयम् -
ल
बु. १० शु.
पचे.
के. ११
श.१ भौ.
३ गु.
उपजातिः - निर्वाणभावं प्रगतस्य पूज्य
सूरीशवर्यस्य शरीरकान्तिः । विशेषतोऽभूदतिदीप्यमाना,
दृष्ट्वा जना विस्मयभाज आसन् ॥२८८॥ सूरीश्वरस्वर्गनिवासजन्यो,
वृत्तान्त एष त्वरितं सशोकम् ।। संप्रापि लोकैरुदपादिपुर्यां,
ख्याता न वार्ता सहते विलम्बम् ॥२८९॥ शीघ्रं तदा श्रावकवर्गमुख्या,
ग्रामे समागुः शुभ एकलिङ्गे। जिनेन्द्रधर्मैकधुरन्धरस्य,
संदर्शनार्थं गुरुनीतिसूरेः ॥२९०॥