________________
४५२
. आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निद्रा समागच्छति नैव मां च; -
ततोऽहमर्हच्चरणाम्बुजेषु । मनोऽवधार्याऽतिदृढं स्वकीयं,
ध्यानं करोम्यात्महिताय धर्म्यम् ॥२७२॥ अशायि तैः साधुवरैस्तदानी
माचार्यदेवेशसमाज्ञया वै। द्विवादनाऽनन्तरमेव रात्रौ,
शिष्यं समाह्वत्स मनोहराह्वम् ॥२७३॥ कुण्डी समानाय्य तदा ही तेन,
कृत्वा गुरुः प्रस्त्रवणं स्वयं वै । निशय्य पश्चान्निजसंस्तरेऽसौ,
___ ध्याने निमग्नश्च जिनेश्वरस्य ॥२७४॥ सर्वैर्विनिद्रैर्गुरुनीतिदेहे,
व्याधिः प्रपूर्णः समबुध्यतोग्रः । ततः समाहूयत वैद्यराज
स्तत्रत्य आतङ्कनिरूपणार्थम् ॥२७५॥ परीक्ष्य सूरीश्वरदेहरोग
मवोचदेवं बत वैद्यराजः । क्षीणायुषो लक्षणमीक्ष्यतेऽतः,
संश्रावणीयाः खलु धर्म्यशब्दाः ॥२७६॥ समीपमासीद् वरपण्डिताग्र्यः,
सुपाठको यो मुनिवर्यकाणाम् । नाडीपरीक्षाकुशलं तमेनं,
तेऽबोधयन् सूरीनिरूपणार्थम् ॥२७७॥