________________
४५०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुवनविजयनामसन्मुनीन्द्रः,
सच्छीलं मुनिपञ्चकं तथैवम् ॥२६१॥ प्रतिपदि सुतिथौ दले च कृष्णो,
पौषाख्ये वरमासके यमीन्द्राः । अदबदवरतीर्थवित्तयात्रां,
कृत्वाऽगुस्तत एकलिङ्गवासे ॥२६२॥ उपजातिः - सायं च सूरीशशरीरमुग्र
रोगाभिभूतं समभूत् क्रमेण । वृत्तान्तमेतत् सकलं ततस्तैः,
संप्रापि शीघ्रमुदयादिपुर्याम् ॥२६३॥ मालिनी - उदयपुरनिवासिश्रावकाग्रेसरास्ते,
सह वरभिषगिन्द्र-प्रष्ठसड्डॉक्टराभ्याम् । अपि च सहचराभ्यां दक्षकम्पौण्डराभ्यां,
प्रवरगुरुसमीपे तत्र तूर्णं समागुः ॥२६४॥ उपजातिः - सर्वे मिताः षोडशसंख्यया ते,
त्वरावता मॉटरवाहनेन । रात्रौ समागुर्गुरुभक्तियुक्ता,
आचार्यवर्यस्य समीपमुत्काः ॥२६५॥ वैद्यप्रवेकः स च डॉक्टरेन्द्रो,
निदानकार्ये निपुणावुभौ तौ ।