SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ चित्तोsप्रतिष्ठा हेतु गुरुवराणां समाधिं निबघ्नोति सकलसंघ । परन्तु सूरीश्वरपुङ्गवोऽसौ, दौर्बल्ययुक्तोऽपि सशक्तचेताः । प्राचीनतीर्थे हि समुत्सुकोऽभूत्, कर्तुं प्रतिष्ठां स्वकराम्बुजाभ्याम् ॥२५६॥ ततोऽब्रवीत् श्रेष्ठिवरं सुवाचा, युष्माकमुक्तं गुरुभक्तिपूर्णम् । अनुप्रतिष्ठाकरणं तु भावि, स्थलेऽस्मदीयं गमनं परत्र ॥ २५७॥ चित्तोडदुर्गस्थितमन्दिराणां, औपच्छन्दसकम् पूतप्रतिष्ठाकरणार्थमस्मात् । श्रीपौषमासस्य सुपूर्णिमायां, प्राज्ञो व्यहार्षीद् गुरुनीतिसूरिः ॥२५८॥ आचार्यराजैरुदयादिपुर्या, यदा विहारः प्रकृतः सशिष्यैः । तदा च तेषां सविधे समासन्, मुनीन्द्रवर्या नव शुद्धशीलाः ॥ २५९ ॥ मनहरविजयो मुनीन्द्रमान्यः, पन्न्यासाख्यपदाऽतिभूषितात्मा । विजयपदवृतो गणिप्रकाण्डः, पन्यासो मुनिसंपदाह्वविज्ञः ॥ २६०॥ मुनिरविविजयो व्रती गुरूणां, सेवायां स सदा निबद्धचेताः । ४४९
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy