________________
४४७
चरित्रनेतुः उदयपूर आगमनम् । अधिकामयत्वम् । उपजातिः - विहारजन्याऽतिपरिश्रमेण,
सूरीश्वराणां तु तनुः सुतन्वी । अशक्तिबाहुल्ययुताऽतिजीर्णा,
तदा समासीच्च रुजाप्रपूर्णा ॥२४६॥ ततो हि तत्रत्यचिकित्सकेन्द्र
- स्तथा प्रसिद्धोत्तमडॉक्टराग्र्यैः शीघ्रं समारभ्यत सूपचारो,
वरौषधीभिश्च यमीन्द्रदेहे ॥२४७॥ परं न जातं तु यदाऽऽनुकूल्यं,
तदा समाहूयत वैद्यराजः । चित्तोडदुर्गीययतीन्द्रवर्यः,
श्रीबालचन्द्राऽभिधया प्रसिद्धः ॥२४८॥ तस्यौषधं सूरिवगैर्गृहीतं
मष्टौ दिनानि विधिना हि यावत् । अहम्मदावादपुराच्च तत्र,
तावत्समागाद् वरसूरिभक्तः ॥२४९॥ मालिनी - गुरुवरपदरक्तः सूतरीयेत्युपाह्वो,
धनिकमगनलालस्यात्मजो भोगिलालः । परमगुरुवराणां दैहिकी तां स्थितिं वै, किल सनिजकुटुम्बो द्रष्टुमत्युच्चभक्त्या ॥२५०॥
(युग्मम्)