________________
२५
पट्टावली अनुवर्तते । इत्थं महाऽऽडम्बरतः स भीखे
त्याख्यो विनिर्णीतदिने सुलग्ने । पन्यासयुग्-रत्नविजित्सुपाणे
र्जग्राह दीक्षामतिमोदमानः ॥१६६॥ विशुद्ध-भावेन दिवाऽनिशं हि,
__चारित्र-रत्नं ह्यवतोऽतियत्नात् । ज्ञानक्रिये तस्य समैधिषातां,
सिते शशाङ्कस्य कलेव पक्षे ॥१६७॥ सहोपयोगेन हि नित्यकर्मा
नुष्ठान-शीलस्य मुनेरमुष्य । भाव-प्रकर्षः परिवर्धमानो, __व्यालोकि लोकैः क्रमशस्तदानीम् ॥१६८॥
इन्द्रवज्रा -
तत्राऽपि तदर्शन-शुद्धिरासी
लोकेऽद्वितीया विबुधैरपीड्या । यदैहिकेऽतिप्रतिबन्धकेऽपि,
नैवाऽजहाज्जात्वपि तद्विशुद्धिम् ॥१६९॥ वसन्ततिलका - आजीवमात्म-रमणः कृतिनां वरेण्यः, प्राण-प्रयाण-समये समुपस्थितेऽपि । व्याहृत्य पञ्च-परमेष्ठि-नमस्कृति स, संक्षाम्य सर्वजनतां दिवमध्यवात्सीत् ॥१७०॥