________________
२६
पुष्पिताग्रा
शालिनी
उपजाति:
सौम्ये दिने श्रेयसि शुद्धलग्ने, दीक्षां प्रदातुं सुधिये ह्यमुष्मै । पन्यासयुग् रत्नविजिन्मुनीशो,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
-
अथ सकल-कुटुम्ब-वर्ग-पौरास्तदुदित - मोदममानमाप्नुवन्तः । प्रददु-रनुमतिं तदर्थमस्मै,
निर्धार्य सङ्घं तदुवाच सर्वम् ॥१६१॥ युग्मम्
-
सकल - पुरे च तदुत्सवं वितेनुः ॥ १६२ ॥
प्रादुः सम्यग् वायणामेकमासं, नष्टप्रायाऽशेष - मोहाय तस्मै । भीखानाने संयमेच्छामिताय,
सर्वे पौरा भूरिसत्कारपूर्वम् ॥१६३॥
दीक्षा - जिघृक्षा समये च तस्मिनुदेति कस्यैव महात्मनो यत् । अतः किलैतां जनता समस्ता,
महत्त्वबुद्ध्याऽऽद्रियताऽतिष्टा ॥ १६४ ॥
लान्ति स्म ये तां परिहाय मोहं,
कौटुम्बिकं वैषयिकं च सौख्यम् । आत्माऽतिरामाः कृतिनस्त एव,
मान्याश्च धन्या जनतास्वभूवन् ॥१६५॥