________________
पट्टावली अनुवर्तते । भृशं नानादुःखं जगति सहते जीवनिकरः,
भुजङ्ग्यस्ता वामा नियतमिह तिष्ठन्ति विषमाः । विपद्ग्रस्तो देहो विषयजसुखं चान्तविरसं,
विचिन्त्यैवं धीरा लघु भवत धर्मैकमनसः ॥१५६॥ वसन्ततिलका - रत्नाकरे पतित-रत्नमिव स्वपाणे
र्मानुष्य-मप्यतिदुरापमुपेत्य लोके । धर्मे मतिं न हि करोति मनुष्यजन्मा,
पश्वादिवद् भवति तस्य जनुर्मुधैव ॥१५७॥ मालिनी - मुनिवर-मुख-चन्द्रान्निश्च्युतं सोऽपि भीखा (खो)
ऽमृतमयमुपदेशं किल्विषौध-प्रणाशम् । श्रुति-युगल-पुटाभ्यां काममापीय हृष्टोऽ
भवदधिक-विरागी सर्वसङ्गं जिहासुः ॥१५८॥ उपजातिः - ततः स भीखेत्यभिधानको हि,
संसार-दुःखाऽनल-तप्तचित्तः । भवौषधं संयममादरेण,
पन्यासवर्यं तमयं ययाचे ॥१५९॥ अमुष्य संसार-निवृत्तिमिच्छतो,
निशम्य सम्प्रार्थनमातुरस्य । द्वि-त्रि-ग्रहैक-प्रमिताऽब्दकीय-(१९३२)
- माघे सुमासे धवले च पक्षे ॥१६०॥