________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्पाययन् मोह-तमित्रमेषां,
तमिस्रहेवाऽतितरां निरस्यन् ॥१५०॥ तत्राऽणहिल्ले नगरे विशाले,
समागतं तम्मुनिराजमेनम् । नानद्यमानैर्विविधैः सुवाधैः,
प्रावेशयन्ताखिल-पौरलोकाः ॥१५१॥ कृत्वा प्रवेशं महतोत्सवेन,
व्याख्यान-मारब्ध सुधोपमं सः । भव्याः ! प्रजानीत समस्तमेव,
विद्युद्विलासायितमस्ति विश्वम् ॥१५२॥ शिखरिणी - हठालोके लोकान् कवलयति कालो हि बलवान्, भवत्यायुः क्षीणं प्रतिदिनमवश्यं जनिमताम् । इति ज्ञात्वा सर्वे भवत शुभकृत्ये परिणताः समायाते काले कृत-सुकृतमेवाऽवति यतः ॥१५३॥ तरीतुं संसारं जलनिधिमपारं सुकृतिनां, महापोतं धर्मं जिनगदितमेवाऽतिसुखदम् सुखाऽऽदित्सां धद्ध्वे भजत लघु सर्वे सुभविनः, यतोऽक्षय्यं सौख्यं नियतमतिजुष्टः प्रददते ॥१५४॥ भवारण्ये भीमे कुसुम-शर-लुण्टाक-निलये, महामोहे सिंहे विषय-ममता-गर्त-विषमे । घनाऽज्ञान-ध्वान्ते मद-गिरि-सुदुर्गे विधिवशाद्, व्रजन्तश्चापल्यं न हि नयत चित्ते गुरुधियः ॥१५५॥