________________
पट्टावली अनुवर्तते । सवाइचन्द्रस्य महर्द्धिकस्य,
स्वधर्मपल्यामतिशीलवत्याम् । जीवेतिनाम्न्यां बहुरूपवत्यां,
भीखाऽभिधानो ह्युदपादि सूनुः ॥१४५॥ युग्मम् बाल्य-प्रभृत्यैव तदीय-चित्तं
संस्कार-रागेण हि धार्मिकेण । आसीच्च रक्तीकृतमेतकस्मात्,
__ तद्भावना नित्यमवर्वृधीच्च ॥१४६॥ स्वस्मिन्नजस्रं रममाण एष,
सर्वं प्रपञ्चं क्षणिकं प्रपश्यन् । सदैव सद्धर्म-विधावरज्यत्,
संसारवासादपि संव्यरंसीत् ॥१४७॥ आर्या-गीतिः - तावदुपैदनुयोगा-ऽऽचार्यः पन्यास-रत्नविजयः श्रीमान् । भ्राम्यन् देशमनेकं, भव्याऽऽत्मनां प्रतिबोधनं ददमानः ॥१४८॥ शिखरिणी - पुनानोऽयं पृथ्वीमनिशमनघः स्वाङ्घि-कमलैः,
__जयन् वादिव्राजं दिशि दिशि सुयुक्त्या जिनगिराम् । नयंस्तान् सन्मार्ग कुपथ-गत-लोकानहरहो (हर् ),
हरन् मोहं नृणां तम इव दिनेशः समुदितः ॥१४९॥ उपजातिः - व्याख्यान-पीयूषमलं सुभव्यान्,
संसार-वाधिं तितरीषु-जीवान् ।