________________
४३८८
- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आचार्यवर्यस्य समीपमासन्,
मुनीश्वराः संयम-शीलधुर्याः । तपस्विनश्चागमबोधभाजः,
शिष्याः प्रशिष्या बहवो वरिष्ठाः ॥२००॥ परन्तु सर्वे गुरुभक्तिहेतोः,
स्थातुं हि सूरेः सविधे समैच्छन् । विहाय सूरीश्वरपादसेवां,
नैच्छन् प्रयातुं च परत्र केऽपि ॥२०१॥ तथापि कल्याणविधित्सया वै,
शरीरभाजां जगतः समेषाम् । शुभङ्कराः पुण्यविशालभावाः,
सूरीश्वरा इत्थमचिन्तयश्च ॥२०२॥ पृथक्पृथग्ग्राम-पुरस्थलेषु,
संप्रेषणातो मुनिपुङ्गवानाम् । अनेकभव्यप्रतिबोध एवं,
धर्मस्य वृद्धिः प्रभवेत्, प्रभूता ॥२०३॥ व्रतानि भव्यानि यमास्तपांसि,
विशेषकल्याणकराणि हि स्युः । तथैव सर्वज्ञसुशासनस्य,
प्रभावना-ख्याति-विशेषशोभाः ॥२०४॥ विचिन्त्य चेत्थं वरसूरिराजः,
संमेल्य सर्वान् निजशिष्यमुख्यान् ।