________________
व्याधेः किञ्चित् उपशमनं यतीन्द्रोपायैः । वरिष्ठमात्रादिमहौषधानां,
प्रयोगमुच्चैः खलु सावधानः ॥११४॥ ( युग्मम् )
यतीन्द्रवर्यस्य वरौषधेन,
न्यूनाऽभवत् सूरिशरीरपीडा ।
ततो नदीतीरमनु व्रतीन्द्रः,
स स्थण्डिलार्थं समगात् सुखेन ॥ १९५॥
पुरोपकण्ठस्थितभव्यशृङ्गे,
देवालये रम्यतमे वरेण्ये |
तीर्थेशसौम्यप्रतिमोत्तमानां,
संवन्दनार्थं गमनेऽशकत् सः ॥१९६॥
कियद्दिनानन्तरमागमँश्च,
बीयावराख्यान्नगरात् सुवित्तात् । प्रतापदुर्गाह्वपुरोत्तमाच्च,
तथा वरेण्यात्तखतादिदुर्गात् ॥१९७॥
इत्यादिसद्ग्राम- पुरादिकेभ्यः,
श्रीसंघमुख्या वरनीतिसूरे: ।
वर्षर्तुवासाय समं मुनीन्द्रैः,
संप्रार्थनार्थं हि शुभैकभावाः ॥ १९८ ॥ ( युग्मम् )
परन्तु सूरीश्वरपुङ्गवस्य,
प्रागेव वर्षर्तुनिवासकार्यम् ।
४३७
सुनिश्चितं सादडिनामपुर्या
मभूत्ततस्तान् खलु नाऽन्वमंस्त ॥ १९९॥