________________
४३६
-
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - विचिन्त्य चाऽशक्तिमतीव स्वस्मिन्,
शरीरके रोरुजाप्रभूते । वर्षतुवासाय तदाऽन्वमंस्त,
श्रीसादडीनामपुरे यमीन्द्रः ॥१८९॥ (युग्मम्) प्रभूतवैराग्यवृतस्य तस्य,
सुसंयमाधिष्ठितचेतनस्य । चारित्रपात्रैविनयान्वितैश्च,
शिष्यैः प्रशिष्यैः परिषेवितस्य ॥१९०॥ महाप्रभावाऽन्वितनीतिसूरे
रनल्पसेवाजनितोच्चलाभः ।। संप्राप्त एवं प्रविबुध्य भव्यः,
श्रीसादडीसंघवरोऽत्यहष्यत् ॥१९१॥ (युग्मम्) ततश्च हर्षोच्छलितात्मभावाः,
सूरे ! जय त्वं सुजयेति शब्दान् । उच्चैर्वदन्तः समवाप्य सर्वे,
गुरोरनुज्ञां गृहमन्वगच्छन् ॥१९२॥ निदानकार्ये समरोगकाणां,
तथा प्रयोगे च महौषधानाम् । अतिप्रवीणो यतिपुङ्गवो यः,
श्रीबालचन्द्राभिधवैद्यराजः ॥१९३॥ आचार्यवर्यस्य रुजः प्रशान्त्यै,
स सार्धमासावधि संव्यधत्त ।