________________
४३०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अहम्मदावादपुरागमार्थ
मतो भवद्भिर्हि कृपा विधेया ॥१५६॥ परन्तु सूरीश्वरवर्य ऐच्छत्,
श्रीसादडीनामपुरे हि वस्तुम् । अतो न्यषेधीद्वचनं तदीय
महम्मदावादपुरं प्रयातुम् ॥१५७॥ तथापि तेषां गुरुभक्तिभाजां,
__ श्राद्धोत्तमानां च मुनीश्वराणाम् । अहम्मदावादपुराय नेतुं,
विज्ञप्तिरासीद् विनयेन युक्ता ॥१५८॥ अतोऽन्वमंस्तैतदनिच्छयाऽपि,
___ सूरीश्वरस्तद्वचनं तदानीम् । गुरूत्तमस्वीकृतिवाक्यतस्ते,
श्रेष्ठीश्वरा भक्तिपरा अतुष्यन् ॥१५९॥ श्रीपादलिप्ताख्यपुरे धनीशा,
अदुः समाचारमतित्वरातः । डोलीतिनामाङ्कितयाप्ययान
मानायनार्थं गुरुपुङ्गवाय ॥१६०॥ अहम्मदावादपुरे स्ववासे,
श्रेष्ठीश्वराणां गमनस्य पश्चात् । शरीरदौर्बल्यमनल्परोगा
दाचार्यवर्यस्य तदा समीक्ष्य ॥१६१॥