________________
राजनगरे आगन्तुं सूरीवराणां विज्ञप्तिः ।
अर्हो विहारो यदि वा न योग्यो,
मतं ग्रहीतुं त्विति डॉक्टरस्य ।
शिष्य-प्रशिष्यादिकसाधुधुर्या,
निर्णीतवन्तो गुरुभक्तिनिष्ठाः ॥ १६२॥ ( युग्मम् )
ततश्च दक्षं शिवगंजवितं.
पाश्चात्यभैषज्यविधौ प्रवीणम् ।
घांचीत्युपाह्वं वरडॉक्टरं तं,
श्रीसादडीनामपुरे समाह्नन् ॥१६३॥
निरूप्यदेहं गुरुनीतिसूरे
रशक्तियुग् व्याधिपरीतमुच्चैः ।
अवोचतेत्थं वरडॉक्टरोऽसौ,
हितार्थमाचार्यवरस्य भक्तः ॥ १६४॥
पादाधिकक्रोशशतेऽतिदूरे,
अहम्मदावादपुरे प्रयाणम् ।
दौर्बल्यबाहुल्यशरीरभाजां,
न विद्यते योग्यतमं गुरूणाम् ॥१६५॥
श्रीसादडीनामपुरस्य संघ
मुख्या मिलित्वा सममन्त्रयन्त । श्रेष्ठीश्वराः सेजमलाङ्गजन्म
श्रीमूलचन्द्रादिकसूरिभक्ताः ॥ १६६ ॥
अस्मादृशश्रावकवासवित्तात्,
४३१
पुरात् सहस्त्राधिकजैनगेहात् ।