SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रशान्तमुद्राऽतिगुिणौघभाजं, . ..... विद्यावरिष्ठं जनबोधनिष्ठम् ॥१३५॥ एतादृशं श्रीविजयैकपूर्वं, सन्नीतियुक्तं गुरनीतिसूरिम् । दृष्ट्वा समापन् जिनधर्ममुच्चै भव्या अभूवन् भवभीरवो ये ॥१३६॥ (युग्मम्) खीवाणदीग्रामवराद् विहृत्य, ग्रामं गता वालिशुभाभिधानम् । ततः पुरं सादडिनामवित्तं, सूरीश्वराः शिष्यवरैः सहाऽगुः ॥१३७॥ श्रीसादडीनामपुरस्य संघः, प्रोत्साहयुक्तो वरघोटकेन । सुस्वागतं तोरण-वाद्यपूर्वं, सूरीश्वराणामकरोत्तदानीम् ॥१३८॥ स्थित्वा च तस्मिन् कतिचिद्दिनानि, ततो गता राणकपत्तने ते । तीर्थे वरे भारतभूप्रसिद्धे, ___यात्राकृते सूरिवराः सशिष्याः ॥१३९॥ चतुर्मुखं तत्र युगादिदेवं, श्रीपार्श्वनाथं जनदोषशोषम् । श्रीनेमिनाथं शिवदं शिवाज, दृष्ट्वाऽऽत्ममोदं वरमन्वभूवन् ॥१४०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy