________________
४२३
खीवान्दीग्राम संघक्लेश उपशमनाय विज्ञप्तिः । निजकनिजकपक्षावेदनं भेदहेतुं,
सरलविनयभाजोऽश्रावयन् निर्णयार्थम् ॥१२०॥ (युग्मम्) उपजातिः - अस्मद्विवादस्य सुनिर्णयो हि,
मध्यस्थवर्यैः परिदास्यते यः ।। स स्वीकृतोऽस्माभिरिति प्रदत्तं,
पत्रं स्वहस्ताक्षरचिह्नयुक्तम् ॥१२१॥ वंशस्थः - तदा समाकर्ण्य च पक्षयोर्द्वयो
विरोधहेतुं नयिसूरिपुङ्गवः । माध्यस्थ्यमाधाय निजे सुचेतने,
निध्यातवान् सूक्ष्मतया धिया ततः ॥१२२॥ उपजातिः - श्रीनीतिसूरिर्मरुराष्ट्रजाना
'मसंस्तुतोऽभूत् प्रकृतेश्च रीतेः । अतोऽयमेतद्विषयेऽन्यसुझं,
प्रष्टुं समैच्छद् मरुदेशदक्षम् ॥१२३॥ तस्मादसौ वांकलिवासिवर्य,
हजारिमल्लात्मजचन्दुलालम् । आवश्यकैतद्विषयेष्वपृच्छद्,
न्यायं प्रदित्सु भयोः सुमान्यम् ॥१२४॥
१ असंस्तुतः-अपरिचितः ।।