________________
उपधानमाला महोत्सवम् ।
वंशस्थ:
शत्रुंजयाद्रेर्भवतारकस्य, मोक्षैकहेतोश्च सुरैवताद्रेः ।
कृता हि रम्या रचना वरेण्या,
जिनेश्वराणां प्रतिमोत्तमानां शुभाङ्गभूषा बहुमूल्ययुक्ताः । सुभावनावृद्धिकरीर्वरिष्ठा, व्यधापयन् वै हृदयङ्गमाश्च ॥ १११ ॥
भव्यात्मनां भावविवर्धिका सा ॥ ११० ॥ ( युग्मम् )
उपजाति:
रम्याः स्वर-ग्राम- सुमूर्च्छनाऽञ्चिताः, श्रुतिप्रिया रागयुता नवा नवाः । पूजा अपठ्यन्त दिने दिने महे,
,
सुगायकैः सुस्वरकण्ठभूषितैः ॥ ११२ ॥
महोत्सवेऽस्मिन् जनताहृदुत्सवे,
श्रीवांकलीग्रामवरेऽतिसुन्दरे ।
जिनेशबिम्बार्चनदर्शनार्थिनां,
'तदाऽयुतं संमिलितं सुभावतः ॥११३॥
आसन्नसार्धत्रिशतीजनानां,
महैः समं फाल्गुनशुक्लपक्षे ।
त्रयोदशीभद्रतिथावकारि,
मालार्पणं सूरिवरादिहस्तैः ॥ ११४ ॥
तपस्विमालार्पणपुण्यकाले,
आयः प्रभूतः समभूद् वसूनाम् ।
१. दश सहस्त्राणि ।
४२१