________________
४२०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपस्विसेवाचरणं तथैव,
उत्साह आस्तामनुमोदनीयौ ॥१०४॥ तावत् पुनः सूरिवरस्य देहे,
शुभेऽभवत् पूर्ववदुग्ररोगः । व्यग्रस्ततः संघवरोऽतिभक्तः,
सूरीशरोगोपशमं समैच्छत् ॥१०५॥ कर्तुं चिकित्सां वरवैद्यराजात्,
पुरे प्रसिद्ध शिवगंजनाम्नि । घांचीत्युपाढे वरडॉक्टरं तम्,
आनाययद् रोगनिदानदक्षम् ॥१०६॥ शनैः शनैस्तस्य भिषग्वरस्य,
महौषधीभिश्च वरोपचारैः । आचार्यमुख्यस्य सुनीतिसूरे
रल्पार्तियुक्तं समभूत् शरीरम् ॥१०७॥ महोपधानाख्यतपःस्थितानां,
सन्मालिकारोपणसन्मुहूर्तम् । श्री फाल्गुनस्योत्तमशुक्लपक्षे,
त्रयोदशीपुण्यतिथौ समागात् ॥१०८॥ सुनिश्चिते जाततमे मुहूर्ते,
उपाश्रयस्याऽतिशुभे विशाले । रम्ये चतुष्के बहुचित्रयुक्ते,
ध्वजा-पताकासमलंकृते च ॥१०९॥