________________
वांकलीनगरे उपधान प्रारंभः ।
तस्मिन् मुहूर्तद्वितये तदानीं,
सुश्रावकाः सत्तपसे सुभावाः ।
श्राद्ध्यश्च संख्यामितषट्शतानि,
शुभोपधानाह्वविधौ प्रविष्टाः ॥ ९९ ॥
व्यधापयत् सूरिवरो विधिज्ञ
स्तदोपधानाख्यतपः क्रियायाम् ।
प्रवेशकार्यं स्वयमेव दक्षः,
सदोद्यता धर्मविधौ मुनीन्द्राः ॥१००॥
जातोपधाने तपसि प्रभूता,
मरौ न संख्या इयती कदापि ।
दृष्ट्वा च तां वांकलिपंचमुख्या,
उत्साहवन्तोऽतिशयेन जाताः ॥१०१॥
तथोपधानाख्यतपस्क्रियाणा
मुदारभावेन विधापको यः । श्रेष्ठीश्वरोऽसावपि भक्तिभावाद्,
अतिप्रभूतार्थव्ययं विधित्सु ॥ १०२ ॥
तपश्चिकीर्षुप्रचुरात्मभाजो,
मुमुक्षुवर्गस्य विशालसंख्याम् ।
दृष्ट्वाऽतिमोदं मनसि ह्यवापद्,
भाग्येन लभ्येत तपस्विसेवा ॥ १०३ ॥ ( युग्मम् )
श्रद्धावतो वांकलिवासिनश्च,
४१९
श्रीसंघवर्यस्य सुभक्तिभाजः ।