SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४१८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिष्यावतंसः समशास्त्रवेत्ता, . ज्ञानादिरत्नत्रयभूपितात्मा ॥१३॥ आचार्यप्रष्ठो विजयादिहर्ष सूरीश्वरः सत्परिवारयुक्तः । समागमद् राधनपूर्वपुर्याः, श्रीवांकलीस्थस्वगुरोः समीपे ॥१४॥ (युग्मम्) तदोपधानस्य विधेनिमित्तं, शीघ्र समारब्ध सुभावुकौघः । प्रभूतसंभारमुपस्कराणां, संमेलनायाऽतिसमुद्यतोऽभूत् ॥१४॥ श्रीवांकलीग्रामनिवासिसंघो, ग्रामेषु खेटेषु पुरोत्तमेषु । संघोपरिष्टाद् बहुमानपूर्वं, प्रेषीत् शुभाः कुङ्कमपत्रिकाश्च ॥१६॥ श्रीपौषमासस्य सुकृष्णपक्षे, तिथौ दशम्यां प्रथम मुहूर्तम् । तस्यैव मासस्य च तत्र पक्षे, चतुर्दशीनामतिथौ द्वितीयम् ॥१७॥ इमे मुहूर्ते शुभयोगयुक्ते, वरोपधानाख्यतपःप्रवेशे । दत्ते यमीन्द्रेण च पूर्वकाले, शुभे मुहूर्ते हि कृतं फलाय ॥१८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy