________________
वांकलीनगरे उपधानहेतु विज्ञप्तिः मुहूर्त प्रदानम् ।
वंशस्थ:
-
'सहस्यमासस्य सितेतरे दले, तिथौ दशम्यां शुभवासरे वरे । दत्तं मुनीन्द्रैः प्रथमं मुहूर्तकं, सुयोगयुक्तं सुभलग्नसंवृतम् ॥८७॥
उपजाति:
तस्यैव मासस्य च कृष्णपक्षे, चतुर्दशी श्रेष्ठतिथौ सुवारे । अदुर्मुनीन्द्रा द्वितीयं मुहूर्तं, ज्योतिर्विदो भव्यहितैषिणस्ते ॥८८॥ संप्रार्थयेतां च धनीश्वरौ तौ श्रीमत्फतेलाल - सुचन्दुलालौ । वयं न विज्ञा उपधानरीत्या - मतः समेयुस्त्वरया भवन्तः ॥८९॥ तां प्रार्थनामाग्रह-भावपूतां, बुद्धोपधानस्य विधानकृत्यै । श्रीमार्गशीर्षस्य सिते हि पक्षे, सूरिर्व्यहार्षीत् शिवगंजपुर्याः ॥९०॥
वसन्ततिलका
सप्त-ग्रह-ग्रह-विधुप्रमिते सुवर्षे (१९९७ ) श्रीमार्गशीर्षशुभमाससिते च पक्षे ।
सूरीश्वराः स्वपरिवारयुताः समागुः,
उपजातिः
-
श्रीवांकलीनिवसथे हि तिथौ दशम्याम् ॥९१॥
श्रीवांकलीग्रामनिवासिनोऽपि,
मुदा महाडम्बरवाद्यपूर्वम् ।
सूरीश्वराऽऽतिथ्यविधानकार्यं,
४१७
पुरप्रवेशे समकार्यरुच्चैः ॥९२॥
काले च तस्मिन् विजयादिभाज, आचार्यवर्योत्तमनीतिसूरे: ।
१. पौषमासस्य । २. ग्रामे ।