________________
४१४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शोकाकुला भावुकसंघमुख्याः
कर्तुं चिकित्सामभिलाषभाजः ॥७१॥ राज्यप्रसिद्धौषधमन्दिरस्य,
अर्वाक्चिकित्सानिपुणं प्रसिद्धम् । घांचीत्युहूं भिषजां वरिष्ठं,
समाह्वयन् 'डॉक्टरकार्यदक्षम् ॥७२॥ (युग्मम्) स वैद्यराजो विविधैः प्रकारै
___ यरूपयत् सूरिशरीरमुच्चैः । व्याधेनिंदानं च विधाय सम्यग्,
निःस्वार्थभावेन सुभक्तियुक्तः ॥७३॥ प्रारब्ध सुष्ठ्वौषधदानकार्य,
मूल्यं विना सेवकभावनातः । आवश्यके कार्यसमागते तु, .
शीघ्रं समागाद् भिषजां प्रधानः ॥७४॥ (युग्मम्) आचार्यवर्यस्य शरीरपीडां, __ रोगप्रवृद्धिं च तदा विदित्वा । अहम्मदावादनिवासिवर्यः,
श्रीमच्चुनीलालतनूजमुख्यः ॥५॥ श्रेष्ठीश्वरोऽसौ भगुभाइनामा,
श्रीसूतरीयाख्यकुलावतंसः ।
१. पाश्चात्यपद्धत्या वैद्यविद्यानि पुणस्य भिषग्वरस्य 'डॉक्टर' इत्याधुनिकभाषायां संज्ञा ।