SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४१३ गुरुवराणां आमयत्वम् । आचार्यवर्यः श्रुतपारदृश्वा, अवाचयद् ज्ञातयथार्थतत्त्वः । व्याख्यानकाले स्वयमेव ज्ञाता - सूत्रं तथा विक्रमराट्चरित्रम् ॥६६॥ सूरीश्वराणां वरदेशनायाः, पीयूषमय्या जनमोक्षदात्र्याः । जैनाश्च जैनेतरभव्यवर्गा, अलभ्यलाभं हि तदाऽलभन्त ॥६७॥ अदुश्च मासावधि सूरिराजा, व्याख्यानमुच्चैः प्रतिबन्धशून्यम् । सर्वैः सुबोध्यं सरलस्वरूप मुदाहृतिश्रव्यतमं वरेण्यम् ॥१८॥ तत्रैव काले समभूत् शरीरे, ___ श्रीनीतिसूरेर्यकृतो हि रोगः । तदुग्ररोगस्य रुजाऽदितोऽसौ, __व्याख्यानकृत्यै न्यदिशत् स्वशिष्यम् ॥६९॥ विद्वान् स पन्यासवरोऽतिधीमान्, संपत्पदाग्र्यो विजयो गणीन्द्रः । गुरोरनुज्ञामधिगम्य नम्रो, व्याख्यानमारब्ध गुरूक्तिकल्पम् ॥७०॥ सूरीश्वराणां यकृदुग्रहपीडां, तदा हि दृष्ट्वा परिवर्धमानाम् । १. आधुनिकभाषायां 'लीवर' इति प्रसिद्धस्य ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy