________________
४१०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - इत्यादिमार्गस्थिततीर्थसंघे,
ग्रामौघमध्ये नगरेषु चैवम् । कृत्वा विहारं वरपींडवाडा
पुरं समागाद् व्रतिनामधीशः ॥५०॥ (युग्मम्) तत्रत्यसंघोऽपि महाग्रहेण,
वर्षर्तुवासार्थमजिज्ञपच्च । सूरीश्वरं तं परिवारजुष्टं,
हस्तौ समानीय सुमानपूर्वम् ॥५१॥ परन्तु पूर्वं शिवगंजपुर्याः,
___ संघस्य वर्षर्तुनिवासहेतोः । अभ्यर्थनैवाऽनुमतेति हेतोः,
सूरीश्वरस्तं खलु नाऽन्वमस्त ॥५२॥ विहृत्य तस्माद् गुरवस्तदानीं,
नाणाख्य-बेडाभिधरम्यरूपौ । तथाऽपरान् श्रीवडगाममुख्यान्,
ग्रामास्तथा खेटक-खर्बटादीन् ॥५३॥ सूरिः स्वपादाऽब्जरजस्समूहै:,
पवित्रयन्नभ्रनृणां शिरांसि । सिञ्चश्च बोधाऽमृतधारया तान्,
पुरं समागात् शिवगंजनाम ॥५४॥ (युग्मम्) ज्येष्ठस्य कृष्णाष्टमीसत्तिथौ ते,
तत्रत्यसुश्रावकसंघमुख्याः ।