________________
वडनगरे जिनालये प्रतिष्ठा कृत्वा तारङ्गातीर्थ यात्रा ।
द्रुतविलम्बितम् -
उपजाति:
स्रग्धरा
अजितनाथजिनेशपरात्मनो,
भगवतः प्रतिमामतिसुन्दराम् ।
मुनिपतिः समवेक्ष्य तदा मुदा,
अनुपमां मुदमन्वभवद्दा ॥४५॥
तत्रैव तीर्थे शिवगंजनाम्नः,
पुरस्य सुश्रावकपंचमुख्याः । श्रीमत्फतेलालधनीश्वराद्या
स्तदाऽऽगमन् सूरिवरस्य पार्श्वे ॥४६॥
धर्म्यं हि वर्षर्तुनिवासकार्यं,
कुर्वन्तु पूज्याः शिवगंजनाम्नि । पुरे समागत्य समादरेण,
विज्ञापनामित्थमकार्षुरेते ॥४७॥
दृष्ट्वा हि तेषामतिभक्तिभावं, संप्रार्थनामाहतिपूर्विकां च ।
सूरीश्वरोऽङ्गीकृतवांस्तदैतां,
पुरं प्रयातुं शिवगंजनाम ॥४८॥
४०९
तारङ्गानामतीर्थाद् विजयपदयुतो नीतिसूरीश्वरोऽसौ,
स्वीयैः शिष्यैः प्रशिष्यैः सह जनहितकृत् संविहारं विधाय । तीर्थे कुंभारियाख्ये जिनभवनवृते श्रीखरेड्याख्यपुर्याम्, आबूनामोच्चतीर्थे सकलजनमते रोहिडा पुरे च ॥ ४९ ॥