________________
राजनगरे दीक्षाप्रसङ्गाः । पानसरतीर्थे चैत्रमासस्य ओलिका ।
उपजाति:
समृद्धिमन्मोहमयीपुरीतः,
श्रीमन्नवादिपदराधकाग्र्य
श्रीलालबागाख्यनिवासवित्ताः ।
समाजसंचालकसभ्यमुख्याः ॥ २५ ॥
आर्या
ग्रामे पानसराभिध - पवित्रतीर्थे श्रीचैत्रमासस्य । ओलिकामहे समेतुं, सूरिमामन्त्रयन्त तत्रेत्य ॥२६॥ ( युग्मम् )
उपजाति:
अत्याग्रहेणादृतवन्त एषां,
तां प्रार्थनां सूरिवरास्तदानीम् । विहृत्य तस्मात् परिवारयुक्ता,
भव्यप्रबोधाय निबद्धचित्ताः ॥२७॥
ग्रामोत्तमं खोरजनामरम्यं,
कल्लोलनाम्ना च पुरं प्रसिद्धम् । अन्यांश्च मार्गस्थितखेटकान् वै,
ग्रामानलंकृत्य तथा पुराणि ॥ २८ ॥
इत्थं विहारे भविकात्मबोधं,
कुर्वन् स बेण्डादिकवाद्यपूर्वम् । सूरीश्वरोऽगाद् बहुमानपूर्वं,
४०५
शिष्यैः समं पानसराख्यतीर्थम् ॥२९॥ ( युग्मम् )
ओलीमहं तत्र विधानपूर्वं,
महामहाडम्बरभावयुक्तम् ।